साधना

Your Spiritual Journey

श्री शिव पञ्चरत्नम् स्तुति Shiva Panchratnam Stuti

॥ श्रीशिवपञ्चरत्नस्तुती शिवमहापुराणे ॥

श्रीकृष्ण उवाच –

मत्तसिन्धुरमस्तकोपरि नृत्यमानपदाम्बुजम् ।

भक्तचिन्तितसिद्धिदानविचक्षणं कमलेक्षणम् ।

भुक्तिमुक्तिफलप्रदं भवपद्मजाऽच्युतपूजितम् ।

कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ १॥

वित्तदप्रियमर्चितं कृतकृच्छ्रतीव्रतपश्चरैः ।

मुक्तिकामिभिराश्रितैर्मुनिभिर्दृढामलभक्तिभिः ।

मुक्तिदं निजपादपङ्कजसक्तमानसयोगिनाम् ।

कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ २॥

कृत्तदक्षमखाधिपं वरवीरभद्रगणेन वै ।

यक्षराक्षसमर्त्यकिन्नरदेवपन्नगवन्दितम् ।

रक्तभुग्गणनाथहृद्भ्रमराञ्चिताङ्घ्रिसरोरुहम् ।

कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ ३॥

नक्तनाथकलाधरं नगजापयोधरनीरजा-

लिप्तचन्दनपङ्ककुङ्कुमपङ्किलामलविग्रहम् ।

शक्तिमन्तमशेषसृष्टिविधायकं सकलप्रभुम् ।

कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ ४॥

रक्तनीरजतुल्यपादपयोजसन्मणिनूपुरम् ।

पत्तनत्रयदेहपाटनपङ्कजाक्षशिलीमुखम् ।

वित्तशैलशरासनं पृथुशिञ्जिनीकृततक्षकम् ।

कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ ५॥

॥ फलश्रुतिः॥

यः पठेच्च दिने दिने स्तवपञ्चरत्नमुमापतेः ।

प्रातरेव मया कृतं निखिलाघतूलमहानलम् ।

तस्य पुत्रकलत्रमित्रधनानि सन्तु कृपाबलात् ।

ते महेश्वर शङ्कराखिल विश्वनायक शाश्वत ॥ ६॥

॥ इति श्रीशिवमहापुराणे च्युतपुरीमाहात्म्ये श्रीकृष्ण कृत श्रीशिवपञ्चरत्नस्तुतिः सम्पूर्णम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *