शिवानन्दलहरी ShivanandLahari

Written by Adi shankaracharya this is one of the major Shiva mantras.

भृङ्गीच्छानटनोत्कटः करिमदग्राही स्फुरन्माधवा-ह्लादो नादयुतो महासितवपुः पञ्चेषुणा चादृतः।

सत्पक्षः सुमनोवनेषु स पुनः साक्षान्मदीये मनो-राजीवे भ्रमराधिपो विहरतां श्रीशैलवासी विभुः॥।५१॥

कारुण्यामृतवर्षिणं घनविपद्ग्रीष्मच्छिदाकर्मठं विद्यासस्यफलोदयाय सुमनः संसेव्यमिच्छाकृतिम् ।

नृत्यद्भक्तमयूरमद्रिनिलयं चञ्चज्जटामण्डलम् शंभो वाञ्छति नीलकन्धर सदा त्वां मे मनश्चातकः ॥५२॥

अकाशेन शिखी समस्तफणिनां नेत्रा कलापी नता-नुग्राही प्रणवोपदेशनिनदैः केकीति यो गीयते ।

श्यामां शैलसमुद्भवां घनरुचिं दृष्ट्वा नटन्तं मुदा वेदन्तोपवने विहाररसिकं तं नीलकण्ठं भजे  ॥५३॥

संध्या घर्मदिनात्ययो हरिकराघातप्रभूतानक-ध्वानो वारिदगर्जितं दिविषदां दृष्टिच्छटा चंचला।

भक्तानां परितोषबाष्पविततिर्वृष्टिर्मयूरी शिवा यस्मिन्नुज्ज्वलताण्डवं विजयते तं नीलकण्ठं भजे ॥५४॥

आद्यायामिततेजसे श्रुतिपदैर्वेद्याय साध्याय ते विद्यानन्दमयात्मने त्रिजगतः संरक्षणोद्योगिने ।

ध्येयायाखिलयोगिभिः सुरगणैर्गेयाय मायाविने सम्यक्ताण्डवसंभ्रमाय जटिने सेयं नतिः शंभवे ॥५५॥

नित्याय त्रिगुणात्मने पुरजिते कात्यायनी श्रेयसे सत्यायादिकुटुंबिने मुनिमनः प्रत्यक्षचिन्मूर्तये।

मायासृष्टजगत्त्रयाय सकलाम्नायान्तसञ्चारिणे सायं ताण्डवसंभ्रमाय जटिने सेयं नतिः शंभवे ॥५६॥

नित्यं स्वोदरपूरणाय सकलानुद्दिश्य वित्ताशया व्यर्थं पर्यटनं करोमि भवतः सेवां न जाने विभो।

मज्जन्मान्तरपुण्यपाकबलतस्त्वं शर्व सर्वान्तर-स्तिष्ठस्येव हि तेन वा पशुपते ते रक्षणीयोऽस्म्यहम् ॥५७॥

एको वारिजबांधवः क्षितिनभोव्याप्तं तमोमण्डलं भित्त्वा लोचनगोचरोऽपि भवति त्वं कोटिसूर्यप्रभः ।

वेद्यः किं न भवस्यहो घनतरं कीदृग्भवेन्मत्तमः तत्सर्वं व्यपनीय मे पशुपते साक्षात् प्रसन्नो भव ॥५८॥

हंसः पद्मवनं समिच्छति यथा नीलांबुदं चातकः कोकः कोकनदप्रियं प्रतिदिनं चन्द्रं चकोरस्तथा ।

चेतो वाञ्छति मामकं पशुपते चिन्मार्गमृग्यं विभो गौरीनाथ भवत्पदाब्जयुगलं कैवल्यसौख्यप्रदम् ॥५९॥

रोधस्तोयहृतः श्रमेण पथिक: छायां तरोर्वृष्टितो-भीतः स्वस्थगृहं गृहस्थमतिथिः दीनः प्रभुं धार्मिकम् ।

दीपं संतमसाकुलश्च शिखिनं शीतावृतस्त्वं तथा चेतः सर्वभयापहं व्रज सुखं शंभोः पदांभोरुहम् ॥६०॥

अङ्कोलं निजबीजसन्ततिरयस्कान्तोपलं सूचिका साध्वी नैजविभुं लता क्षितिरुहं सिन्धुः सरिद्वल्लभम् ।

प्राप्नोतीह यथा तथा पशुपतेः पादारविन्दद्वयं चेतोवृत्तिरुपेत्य तिष्ठति सदा सा भक्तिरित्युच्यते ॥६१॥

आनन्दाश्रुभिरातनोति पुलकं नैर्मल्यतः छादनं वाचा शंखमुखे स्थितैश्च जठरापूर्तिं चरित्रामृतैः।

रुद्राक्षैर्भसितेन देव वपुषो रक्षां भवद्भावना-पर्यंके विनिवेश्य भक्तिजननी भक्तार्भकं रक्षति ॥६२॥

मार्गावर्तितपादुका पशुपतेरंगस्यकूर्चायते गण्डूषांबुनिषेचनं पुररिपोर्दिव्याभिषेकायते ।

किंचित्भक्षितमांसशेषकवलं नव्योपहारायते भक्तिः किं न करोत्यहो वनचरो भक्तावतंसायते ॥६३॥

वक्षस्ताडनमन्तकस्य कठिनापस्मारसम्मर्दनं भूभृत्पर्यटनं नमत्सुरशिरःकोटीरसंघर्षणम् ।

कर्मेदं मृदुलस्य तावकपदद्वन्द्वस्य गौरीपते मच्चेतोमणिपादुकाविहरणं शंभो सदाङ्गीकुरु ॥६४॥

वक्षस्ताडनशङ्कया विचलितो वैवस्वतो निर्जराः कोटीरोज्ज्वलरत्नदीपकलिकानीराजनं कुर्वते ।

दृष्ट्वा मुक्तिवधूस्तनोति निभृताश्लेषं भवानीपते यच्चेतस्तव पादपद्मभजनं तस्येह किं दुर्लभम् ॥६५॥

क्रीडार्थं सृजसि प्रपञ्चमखिलं क्रीडामृगास्ते जनाः यत्कर्माचरितं मया च भवतः प्रीत्यै भवत्येव तत् ।

शंभो स्वस्य कुतूहलस्य करणं मच्चेष्टितं निश्चितं तस्मान्मामकरक्षणं पशुपते कर्तव्यमेव त्वया ॥६६॥

बहुविधपरितोषबाष्पपूर-स्फुटपुलकाङ्कितचारुभोगभूमिम् ।

चिरपदफलकांक्षिसेव्यमानां परमसदाशिवभावनां प्रपद्ये  ॥६७॥

अमितमुदमृतं मुहुर्दुहन्तीं विमलभवत्पदगोष्ठमावसन्तीम् ।

सदय पशुपते सुपुण्यपाकां मम परिपालय भक्तिधेनुमेकां ॥६८॥

जडता पशुता कलङ्किता वा कुटिलचरत्वं च नास्ति मयि देव ।

अस्ति यदि राजमौले भवदाभरणस्य नास्मि किं पात्रं ॥६९॥

अरहसि रहसि स्वतन्त्रबुद्ध्या वरिवसितुं सुलभः प्रसन्नमूर्तिः।

अगणितफलदायकः प्रभुर्मे जगदधिको हृदि राजशेखरोऽस्ति ॥७०॥

आरूढभक्तिगुणकुञ्चित भावचाप-युक्तैः शिवस्मरणबाणगणैरमोघैः।

निर्जित्य किल्बिषरिपून् विजयी सुधीन्द्रः सानन्दमावहति सुस्थिरराज्यलक्ष्मीम् ॥७१॥

ध्यानाञ्जनेन समवेक्ष्य तमःप्रदेशं भित्त्वा महाबलिभिरीश्वरनाममन्त्रैः ।

दिव्याश्रितं भुजगभूषणमुद्वहन्ति ये पादपद्ममिह ते शिव ते कृतार्थाः ॥७२॥

भूदारतामुदवहद्यदपेक्षया श्री-भूदार एव किमतः सुमते लभस्व ।

केदारमाकलितमुक्तिमहौषधीनां पादारविन्दभजनं परमेश्वरस्य ॥७३॥

आशापाशक्लेशदुर्वासनादि भेदोद्युक्तैर्दिव्यगन्धैरमन्दैः ।

आशाशाटीकस्य पादारविन्दं चेतः पेटीं वासितां मे तनोतु  ॥७४॥

कल्याणिनं सरसचित्रगतिं सवेगं सर्वेङ्गितज्ञमनघं ध्रुवलक्षणाढ्यं ।

चेतस्तुरङ्गमधिरुह्य चर स्मरारे नेतः समस्तजगतां वृषभाधिरूढ ॥७५॥

भक्तिर्महेशपदपुष्करमावसन्ती कादंबिनीव कुरुते परितोषवर्षम् ।

संपूरितो भवति यस्य मनस्तटाक-स्तज्जन्मसस्यमखिलं  सफलं च नान्यत् ॥७६॥

बुद्धिः स्थिरा भवितुमीश्वरपादपद्म-सक्ता वधूर्विरहिणीव सदा स्मरन्ती ।

सद्भावनास्मरणदर्शनकीर्तनादि सम्मोहितेव शिवमन्त्रजपेन विन्ते ॥७७॥

सदुपचारविधिष्वनुबोधितां सविनयाम् सुहृदं समुपाश्रिताम् ।

मम समुद्धर बुद्धिमिमां प्रभो वरगुणेन नवोढवधूमिव ॥७८॥

नित्यं योगिमनःसरोजदलसञ्चारक्षमस्त्वत्क्रमः शंभो तेन कथं कठोरयमराड्वक्षः कवाटक्षतिः।

अत्यन्तं मृदुलं तवाङ्घ्रियुगलं हा मे मनश्चिन्तय-त्येतल्लोचनगोचरं कुरु विभो हस्तेन संवाहये ॥७९॥

एष्यतेषजनिं मनोऽस्य कठिनं तस्मिन्नटानीति म-द्रक्षायै गिरिसीम्नि कोमलपदन्यासः पुराभ्यासितः।

नो चेद्दिव्यगृहान्तरेषु सुमनस्तल्पेषु वेद्यादिषु प्रायस्सत्सु शिलातलेषु नटनं शंभो किमर्थं तव  ॥८०॥

कञ्चित्कालमुमामहेश भवतः पादारविन्दार्चनैः कञ्चिद्ध्यानसमाधिभिश्च नतिभिः कञ्चित्कथाकर्णनैः।

कञ्चित्कञ्चिदवेक्षणैश्च नुतिभिः कञ्चिद्दशामीदृशीं यः प्राप्नोति मुदा त्वदर्पित्मनाः जीवन् स मुक्तः खलु ॥८१॥

बाणत्वं वृष्भत्वमर्धवपुषा भार्यात्वमार्यापते घोणित्वं सखिता मृदंगवहता चेत्यादि रूपं दधौ ।

त्वत्पादे नयनार्पणं च कृतवान् त्वद्देहभागो हरिः पूज्यात्पूज्यतरः स एव हि न चेत् को वा तदन्योऽधिकः ॥८२॥

जननमृतियुतानां सेवया देवतानां न भवति सुखलेशः संशयो नास्ति तत्र ।

अजनिममृतरूपं सांबमीशं भजन्ते य इह परमसौख्यं ते हि धन्या लभन्ते ॥८३॥

शिव तव परिचर्यासन्निधानाय गौर्या भव मम गुणधुर्यां बुद्धिकन्यां प्रदास्ये ।

सकलभुवनबन्धो सच्चिदानन्दसिन्धो सदय हृदयगेहे सर्वदा संवस त्वं ॥८४॥

जलधिमथनदक्षो नैव पातालभेदी न च वनमृगयायां नैव लुब्धः प्रवीणः।

अशनकुसुमभूषावस्त्रमुख्यां सपर्यां कथय कथमहं ते कल्पयानीन्दुमौले ॥८५॥

पूजाद्रव्यसमृद्धयो विरचिताः पूजां कथं कुर्महे पक्षित्वं न च वा किटित्वमपि न प्राप्तं मया दुर्लभम् ।

जाने मस्तकमंघ्रिपल्लवमुमाजाने न तेऽहं विभो न ज्ञातं हि पितामहेन हरिणा तत्त्वेन तद्रूपिणा ॥८६॥

अशनं गरलं फणी कलापो वसनं चर्म च वाहनं महोक्षः ।

मम दास्यसि किं किमस्ति शंभो तव पादांबुजभक्तिमेव देहि  ॥८७॥

यदा कृतांभोनिधिसेतुबन्धनः करस्थलाधःकृतपर्वताधिपः।

भवानि ते लंघितपद्मसंभव-स्तदा शिवार्चास्तवभावनक्षमः ॥८८॥

नतिभिर्नुतिभिस्त्वमीशपूजा-विधिभिर्ध्यानसमाधिभिर्न तुष्टः ।

धनुषा मुसलेन चाश्मभिर्वा वद ते प्रीतिकरं तथा करोमि ॥८९॥

वचसा चरितं वदामि शम्भो-रहमुद्योगविधासु तेऽप्रसक्तः।

मनसाऽऽकृतिमीश्वरस्य सेवे शिरसा चैव सदाशिवं नमामि ॥९०॥

आद्याविद्या  हृद्गता निर्गतासी-द्विद्या हृद्या हृद्गता त्वत्प्रसादात् ।

सेवे नित्यं श्रीकरं त्वत्पदाब्जम् भावे मुक्तेर्भाजनं राजमौले ॥९१॥

दूरीकृतानि दुरितानि दुरक्षराणि दौर्भाग्यदुःखदुरहंकृतिदुर्वचांसि ।

सारं त्वदीयचरितं नितरां पिबन्तं गौरीश मामिह समुद्धर सत्कटाक्षैः ॥९२॥

सोमकलाधरमौलौ कोमलघनकन्धरे महामहसि ।

स्वामिनि गिरिजानाथे मामकं हृदयं निरन्तरं रमतां ॥९३॥

सा रसना ते नयने तावेव करौ स एव कृतकृत्यः।

या ये यौ यो भर्गं वदतीक्षते सदार्चतः स्मरति ॥९४॥

अति मृदुलौ मम चरणा-वतिकठिनं ते मनो भवानीश ।

इति विचिकित्सां संत्यज शिव कथमासीद्गिरौ तथा वेश:॥९५॥

धैर्याङ्कुशेन निभृतं रभसादाकृष्य भक्तिशृङ्खलया ।

पुरहर चरणालाने हृदयमदेभं बधान चिद्यन्त्रैः ॥९६॥

प्रचरत्यभितः प्रगल्भवृत्त्या मदवानेष मनःकरी गरीयान्।

परिगृह्य नयेन भक्तिरज्ज्वा परम स्थाणुपदं दृढं नयामुम् ॥९७॥

सर्वालंकारयुक्तां सकलपदयुतां साधुवृत्तां सुवर्णां सद्भिः संस्तूयमानां सरसगुणयुतां लक्षितां लक्षणाढ्याम् ।

उद्यद्भूषाविशेषामुपगतविनयां  द्योतमानार्थरेखां कल्याणीं देव गौरीप्रिय मम कविताकन्यकां त्वं गृहाण ॥९८॥

इदं ते युक्तं वा परमशिव कारुण्यजलधे गतौ तिर्यग्रूपं तवपदशिरोदर्शनधिया ।

हरिब्रह्माणौ तौ दिवि भुवि चरन्तौ  श्रमयुतौ कथं शंभो स्वामिन् कथय मम वेद्योऽसि पुरतः ॥९९॥

स्तोत्रेणालमहं प्रवच्मि न मृषा देवा विरिञ्चादयः स्तुत्यानां गणनाप्रसंगसमये त्वामग्रगण्यं विदुः ।

माहात्म्याग्रविचारणप्रकरणे धानातुषस्तोमव-द्धूतास्त्वां विदुरुत्तमोत्तमफलं शंभो भवत्सेवकाः ॥१००॥

You may also like...

Leave a Reply

Your email address will not be published. Required fields are marked *