साधना

Your Spiritual Journey

श्री शारदा भुजंग स्तोत्रम् || Sharada Bhujanga Stotra

श्री शारदा भुजंग स्तोत्रम् || Sri Sharada Bhujanga Stotram

सुवक्षोजकुम्भां सुधापूर्णकुंभां प्रसादावलम्बां प्रपुण्यावलंबाम् ।

सदास्येन्दुबिम्बां सदानोष्ठबिम्बां भजे शारदाम्बां अजस्रं मदम्बाम् ॥ १ ॥

कटाक्षे दयार्द्रां करे ज्ञानमुद्रां कलाभिर्विनिद्रां कलापैः सुभद्राम् ।

पुरस्त्रीं विनिद्रां पुरस्तुङ्गभद्रां भजे शारदाम्बां अजस्रं मदम्बाम् ॥ २ ॥

ललामाङ्कफालां लसत्गानलोलां स्वभक्तैकपालां यशः श्री कपोलाम् ।

करेत्वक्षमालां कनत्प्रत्नलोलां भजे शारदाम्बां अजस्रं मदम्बाम् ॥ ३ ॥

सुसीमन्तवेणीं दृशानिर्जितैणीं रमत् कीरवाणीं नमत् वज्रपाणीम् ।

सुधामन्थरास्यां मुदा चिन्त्यवेणीं भजे शारदाम्बां अजस्रं मदम्बाम् ॥ ४ ॥

सुशान्तां सुदेहां दृगन्ते कचान्तां लसत् सल्लताङ्गीं अनन्तामचिन्त्याम् ।

स्मरेत्तापसैः सङ्गपूर्वस्थितां तां भजे शारदाम्बां अजस्रं मदम्बाम् ॥ ५ ॥

कुरंगे तुरंगे मृगेन्द्रे खदेन्द्रे मराले मदेभे महोक्षेऽधिरूढाम् ।

महत्यां नवम्यां सदा सामरूपां भजे शारदाम्बां अजस्रं मदम्बाम् ॥ ६ ॥

ज्वलत् कान्ति वह्निं जगन्मोहनाङ्गीं भजे मानसांभोजसुभ्रांतभृंगीम् ।

निजस्तोत्रसंगीतनृत्यप्रभांगीं भजे शारदाम्बां अजस्रं मदम्बाम् ॥ ७ ॥

भवांभोजनेत्राजसंपूज्यमानां लसन्मन्दहासप्रभावक्त्रचिह्नाम् ।

चलच्चंचलोदारताटङ्ककर्णां भजे शारदाम्बां अजस्रं मदम्बाम् ॥ ८ ॥

Leave a Reply

Your email address will not be published. Required fields are marked *

Exit mobile version